मंगलवार, 7 अप्रैल 2009

champukavya

चम्पूकाव्यम्
चम्पूशब्दःचुरादिगणस्य गत्यार्थकचापिधातोः औणादिक-उन् प्रत्ययकॄते ऊङ्-आदेश कॄत्वा च निष्पत्ति। "चम्पयति" अर्थात् सहैव गमयति प्रयोजयति गद्यपद्ये इति
चम्पूः।हरिदासभट्टाचार्यानुसारेण-चमत्कॄत्य पुनाति,सह्र्दयान विस्मयीकॄत्य प्रसादयति इति म्पूः। अनुसारेण चम्पूकाव्येषु "शब्द-चमत्कारः" अर्थप्रसादगुणश्चोभौ भवेताम्। चम्पूकाव्येषु वर्णनात्मकांगद्यस्य प्रयोगः भवति। अर्थगौरवाय च पद्यस्य प्रयोगः भवति। आचार्यः विश्वनाथः साहित्यदर्पणे उक्तवान्
"गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते।" (साहित्य दर्पण -३३६) चम्पूकाव्यस्य विशेषता अस्ति यत् पद्यस्य सम्मिश्रणेन गद्यः अपि तथैव आह्लादकः भवति यथा वाद्यस्य मिश्रणेन गानम्। चम्पू-रामायणे भोजः अपि उक्तवान्--
गद्यानुबन्धरस-मिश्रित-पद्य-सूक्तिः हृद्या हि वाद्य-कलया कलितेव गीतिः।
तस्माद् दधातु कविमार्गजुषां सुखाय चम्पू प्रबन्धरचनां रसना मदीया॥
(बालकाण्डः ३)
चम्पू-काव्यस्य परम्परायाः आरम्भः सर्वप्रथमं वेदेषु प्राप्यते। ऎतरेयब्राह्मणस्य
हरिश्चन्द्रोपरान्ते महाभारतविष्णुपुराणभागवतपुराणेषु चापि गद्यस्य पद्यस्य सम्मिश्रणं प्राप्यते। तत्पश्चात्
बौद्ध-जातक-कथायां चम्पू-परम्परायाः दर्शनं भवति। तेषु अवदानशतकं दिव्यादानं आर्यशूरविरचिता
जातकमाला विशेषोल्लेखनीया अस्ति। चम्पूशब्दस्य पारिभाषिकविश्लेषणं सर्वप्रथमं दण्डी काव्यादर्शे
प्राप्यते।
अद्यावधि उपलब्धं साहित्यानुसारेण वक्तुं शक्यते यत् नलचम्पोः विरचित त्रिविक्रमभट्टः
एव सर्वप्रथमं काव्यरुपेषु अस्याः पद्धतेः प्रवर्तकः अस्ति। तस्य कालः१०वीं शताब्दयाः पूर्वाधम् अस्ति।
तत्पश्चात् नवपञ्चाशताधिकनवशततमे वर्षे लिखितं सोमदेवेन "यशस्तिलक-चम्पूकाव्यम् अस्ति।
तदनन्तरं चम्पूकाव्यस्य स्वतन्त्रः प्रवाहः प्रादुर्भवत्।
त्रिविक्रमभट्टः
त्रिविक्रमभट्टः नलचम्पॊः प्रारम्भे स्ववंशपरिचयं दत्तवान् वर्तते। नलचम्पोः कथा अपूर्णा
अस्ति। तस्यां मध्ये केवलं सप्त-उच्छ्वासा सन्ति। ग्रन्थस्य अपूर्णतायाः विषये एका किंवदन्ती अस्ति।
किन्तु ग्रन्थस्य अपूर्णतायाः कारणं बाणादीनाम् कॄतीनाम् तुल्यं कोऽपि विघ्न-विशेषः मन्येत्।
अस्मिन् ग्रन्थे नलदम्यन्त्योः प्रणय-कथा वर्णिता अस्ति।
त्रिविक्रमभट्टस्य रचनाशैली श्लेषालंकारप्रधाना अस्ति। प्रसादमाधुर्यगुणस्य अधिकता
अस्ति। कवेः आर्यावर्तवर्णनं वस्तुतः प्रशंसनीयं विद्यते। एतस्मिन् सरलसरसपदावल्या सहैव
परिसंख्याश्लेषालंकारयोः मनोहरप्रयोगं कॄतवान् वर्तते। भाषा-सौष्ठवस्य माधुर्यगुणस्य समन्वयं पश्यताम्--
"सारःसकलसंसार-चक्रस्य,शरण्यः पुण्यकारिणाम्, धाम धर्मस्य,आस्पदं सम्पदाम्,आश्रयः श्रेयसाम्, आकरःसाधुव्यवहार-रत्नानाम्,आर्यावर्तो देशः ।"
नलः दमयन्तीं उक्तवान् यत् सा देवानाम् मध्येषु एकं वरणं करोतु। दमयन्ती उत्तरं दत्तवान
यत् सा नलेन सहैव विवाहं करिष्यति। सर्वेषां रुचिः भिन्नअ भवति। यस्य यः
प्रियः भवति सः सर्वेषां प्रियः न भवति। इदमेव कारणं अस्ति यत् बसन्तस्य मनोहरॠतौ अपि
"मालती-पुष्पं" न विकसति। कवेः कोमलपंक्तिः अस्ति--
भवति हृदयहारी क्वापि कस्यापि कश्चित्
खलु गुणविशेषः प्रेमबन्ध प्रयोगे।
किसलयति वनान्ते कोकिलापरम्ये
विकसति न बसन्ते मालती कोऽत्र हेतुः॥
चतुर्थोच्छ्वासे राजमन्त्री सालंकायनः नृपं नलं यम् उपदेशं दत्तवान् सः
अत्यन्तविद्वत्तापूर्णः अस्ति कादम्बर्याः शुकनासोपदेशस्य च स्मरणं कारयति-
"कुमार, राजहंसोऽपि अहंसरुपः इति मा स्म मोहवान् भूः।तत्तात्, सुविषमेघवर्तिनि
विद्युद्विलास इवास्थिरे आवर्जय गुणवान्, अभ्यस्य कलाः त्यज जाड्यम् भज माधुर्यम्। मा गाः स्त्रियाः श्रियो वा विश्वासम्।अधिक्स्मलवसतिरनार्य-संगता स्त्रीश्च श्रीश्च कं न प्रतारयति।"

अनेन प्रकारेण कथितुं शक्यते यत् त्रिविक्रम्भट्टः शास्त्रीयपाण्डित्यस्य शिरोमणिः
अलंकारप्रयोगेषु विदग्धः वैदुष्यः च अस्ति। अस्य काव्येषु श्रॄंगारस्य रमणीयः परिपाकः, वर्णनस्य
मधुरताः कल्पनायाः मनोज्ञताः श्लेषस्य अनुपमसौन्दर्यसमन्विताः सन्ति।अतएव विद्वत्गणेषु
त्रिविक्रमभट्टः विशेषादरणीयः वर्तते।
विविधाःचम्पू-ग्रन्थाः
चम्पू-काव्यस्य एका वॄहत्परम्परा अस्ति। तस्यां एते विशेष उल्लेखनीयाः चम्पू-ग्रन्थाः
सन्ति--
हरिश्चन्द्रकॄतजीवनधरचम्पूकाव्यम्
जैनकविः हरिश्चन्द्रः जैनमुनीजीवन्धरस्य जीवनोपरि जीवन्धर-नामद्येयं चम्पूकाव्यं
रचितवान्। अस्य कालः नवशत-ईस्व्यामेव अस्ति। अस्मिन् ग्रन्थे माघस्य वाकपतेः च सफलम्
अनुकरणम् अस्ति।
जैन सोमदेवसूरिकॄतयशस्तिलकच्म्पूकाव्यं
जैनकविः सोमदेवसूरिःनवपञ्चाशताधिकनवशततमे वर्षे यशस्तिलकनामद्येयस्य
चम्पूकाव्यस्य रचनाम् कॄतवानासीत्। सोमदेवः नेमिदेवस्य शिष्यः आसीत्। सः राष्ट्रकूटस्य राज्ञः
कॄष्णस्य समकालीनः आसीत्। अस्मिन् ग्रन्थे अष्टाश्वासाः सन्ति। एषः ग्रन्थः कादम्बर्याः
आदर्शानुसारेण लिखितवान् वर्तते।
अयं ग्रन्थः जैनधर्मस्य प्रचारार्थं लिखितवान् वर्तते। अस्मिन् ग्रन्थॆ राजा मारिदत्तः
एकस्मिन् यज्ञे नरबलिं दातुम् इच्छति। एकः सुदत्तः नामधेयः मुनिः एतादॄश-यज्ञस्य निरर्थकतां
प्रतिपादयति। तत्पश्चात् राजा मारिदत्तः जैनः अभवत्।
भोजराजकॄतरामायणचम्पूकाव्यम्
राजाभोजः पञ्चाशताधिकैकसहस्रतमे वर्षे "रामायण चम्पू" इति नामधेयं ग्रन्थं
लिखितवान् वर्तते। भोजःवाल्मीकि-रामायणस्य आश्रयं ग्रहीत्वा राम-कथां किष्किन्धाकाण्डपर्यन्तं
लिखितवान् वर्तते तत्पश्चात् लक्ष्मणः युद्धकाण्डं वेंकटराजः च उत्तरकाण्डं लिखित्वा इमं ग्रन्थं पूर्णं
कॄतवन्तौ स्तः। अयं ग्रन्थः सर्वोत्तमेषु चम्पूग्रन्थेषु एकः अस्ति। अस्य अधिकांशगद्यभागः
सरललघुपदावल्यां लिखितं विद्यते।
अभिनवकालिदासकॄतभागवतचम्पूकाव्यम्
अभिनवकालिदासेन एकादश-शताब्द्यां भागवत-चम्पूकाव्यम् लिखितं विद्यते। ग्रन्थे
षड-अध्यायेषु भागवतस्य कथा वर्णिता अस्ति।
सोड्ढलकॄत-उदयसुन्दरीकथा(११वीं शताब्दी ई०)
अस्मिन् ग्रन्थे अष्ट-उच्छ्वासेषु नागराजकन्योदयसुन्दरीप्रतिष्ठानराजामलवाहनयोः
परिणयस्य वर्णनं अस्ति।
अनन्तभट्टकॄतभारतचम्पूकाव्यम्
अनन्तभट्टेन द्वे चम्पूकाव्ये लिखिते स्तः। भारतचम्पूकाव्यम् भागवतचम्पूकाव्यञ्च।
तयोः भारतचम्पूकाव्यमेव उपलब्धं अस्ति। इदं चम्पूकाव्यं द्वादशस्तम्बकेषु अस्ति।इत्यस्मिन्
महाभारतस्य कथा संक्षिप्ते प्रस्तुता कॄता अस्ति। इत्यस्मिन् गद्येन सहैव प्रायः एकसहस्त्रं श्लोकाः
सन्ति।अस्य कालः पञ्चशताधिकमेकसहस्त्रम् ई० प्रायः मन्यते।
राज्ञीतिरुमलाम्बाकॄतवरदाम्बिका-परिणयचम्पूकाव्यम्
राज्ञीतिरुमलाम्बा राज्ञः अचुयुतरायस्य भार्या आसीत्। इत्यस्मिन् लेखिका राज्ञः
अच्युतरायस्य राज्ञीवरदाम्बिकायाः च प्रणय-वर्णनं कॄतवान् वर्तते। अस्य कालः
नवविंशत्यधिकपञ्चदशशतम् अस्ति। इत्यस्मिन् पुरुषस्य सौन्दर्यस्य मार्मिकं वर्णनं भूतमस्ति। अयं
ग्रन्थः संस्कॄतवाङ्मयस्य उत्थानेषु स्त्रीणाम् कियत् योगदानं अस्ति, अस्य ज्वलन्तोदाहरणमस्ति।

अन्ये चम्पू ग्रन्थाः
त्रयोदशशताब्द्यां

त्रयोदशशताब्द्याः ईस्व्याः विशिष्टाः चम्पूकारह् सन्ति----दिगम्बरजैनेन पं०आशाधरसूरिणा भारतेश्वाभ्युदयचम्पूकाव्यं लिखितमस्ति। अस्मिन् मध्ये जैनतीर्थकरस्य आदिनाथस्य पुत्रस्य राज्ञः भरतस्य जीवनचरितमस्ति। अर्हदासः त्रयोदशशताब्द्याम्-उत्तरार्धः जैनतीर्थकरस्य पुरदेवस्य विषये "पुरदेवचम्पूकाव्यं लिखितवानस्ति। अस्य अपरनाम "अर्हत" अपि अस्ति। अस्य ग्रन्थस्य भाषा सरला मधुरा अलंकॄता चास्ति। दिवाकरः नवनवत्यधिकद्वादशशतईस्व्यां बाल्मीकिरामायणस्य अनुसारेण अमोघराघवचम्पूकाव्यं लिखितवान् अस्ति।
चतुर्दशशताब्द्यां
अहोबलसूरिमहोदयेन द्वे चम्पूकाव्ये लिखिते स्तः--- यतिराज-विजय-चम्पूकाव्यं विरुपाक्ष-बसन्तोत्वसव-चम्पूकाव्यञ्च। प्रथमे चम्पूकाव्ये षोडश-उल्लासेषु रामानुजाचार्यस्य जीवनचरितमस्ति। द्वितीये बसन्तोत्सवस्य वर्णनेन सहैव एकस्य कृपणस्य ब्राह्मणस्य कथा अस्ति। अमलाचार्येण रुक्मिणीपरिणय चम्पूकाव्यं लिखितमस्ति। अयं ग्रन्थः भागवतपुराणे हरिवंशपुराणे च वर्णितस्य रुक्मिणीविवाहस्य आधारोपरि लिखितम् अस्ति।
पञ्चदशशताब्द्यां
कवि तार्किकसिंहः रामानुजीसन्तस्य जीवनोपरि वेदान्ताचार्य-विजय-चम्पूकव्यं लिखितवान् अस्ति।
षोडषशताब्द्यां
कविः कर्णपूरः (चतुर्विंशत्यधिकपञ्चशतईस्व्यां) आनन्द-वॄन्दावन-चम्पूकाव्यं लिखितं अस्ति। अस्मिन् मध्ये भागवतस्य दशमस्कन्धस्य आधारोपरि कॄष्णस्य जन्मतः युवावस्थापर्यन्तं ललितक्रीडायां वर्णनं अस्ति।
कविनारायणभट्टः पञ्चदशचम्पूकाव्यानि लिखितवान् अस्ति। येषु द्वे चम्पूकाव्ये प्रमुखे स्तः---- स्वाहा-सुधाकरचम्पूकाव्यं मत्स्यावतार-प्रबन्धचम्पूकाव्यञ्च। प्रथमे काव्ये अग्नेः भार्या-स्वाहाचन्द्रयोः च प्रणयवर्णनं अस्ति। द्वितीये ग्रन्थे शतपथब्राह्मणे प्राप्तस्य मत्स्यावतारस्य कथा वर्णितः अस्ति।
सप्तदशशताब्द्यां
वीरमित्रोदयस्य लेखकेन् मित्रमिश्रेण श्रीकॄष्णस्य बालजीवनस्य आधारोपरि आनन्दकन्दचम्पूकाव्यं लिखितम् अस्ति। अयं ग्रन्थः ऒजगुणप्रधानः अस्ति। नीलकण्ठ-दीक्षितेन सप्तत्रिंशतधिकषोडशशततमे वर्षे पञ्चाश्वासेषु नीलकण्ठविजयचम्पूकाव्यं लिखितं अस्ति। अस्मिन् ग्रन्थे समुद्रमन्थनस्य कथा शिवविषपानस्य वर्णनम् अस्ति। विलासीजीवनस्योपरि व्यंग्यमपि कृतमस्ति।
वेंकटाध्वरीमहोदयः चतुर्चम्पूग्रन्थाः लिखितवान् अस्ति। तेषां नामानि सन्ति-- विश्वगुणादर्शचम्पूकाव्यं, वरदाभ्युदयचम्पूकाव्यं, उत्तरचम्पूकाव्यं श्रीनिवासचम्पूकाव्यञ्च। चतुर्षु ग्रन्थेषु विश्वगुणादर्शचम्पूकाव्यस्य तमिल प्रान्ते अत्यधिकः प्रचारः अस्ति।
अष्टादशशताब्द्यां
कविः शंकरः शंकरचेतोविलासचम्पूकाव्यं रचितवान् अस्ति। तेन वारेनहेंस्टिग्स इत्यस्य समकालीनस्य काशीनरेशस्य चेतसिंहस्य प्रशंसायाम् अयं ग्रन्थः लिखितहः अस्ति। अयं ग्रन्थः अपूर्णः अस्ति। अस्य अपर-चम्पूकाव्यं गंगावतरणम् इति नामधेयं सप्तोच्छवासेषु अस्ति। कृष्णानन्दकवीन्द्रः त्रयोशीतिः अधिक सप्तदशशततमे वर्षे सुदर्शनचम्पूकाव्यस्य रचनां कृतवान् अस्ति। अस्मिन् काव्ये सुदर्शनस्य कथा वर्णिता अस्ति।
एकोनविंशतिशताब्द्यां
सदाशिवशास्त्रीमुसलगांवकरः नवनवत्यधिकैकोनविंशति तमे वर्षे सिन्दे-विजय-विलास-

चम्पूकाव्यस्य रचनां अकरोत्। अयं ऎतिहासिकः ग्रन्थःअस्ति। अस्मिन् ग्रन्थे सिन्धियानरेशस्य प्रशंसा वर्णिता अस्ति।
अनेन प्रकारेण वयं पश्यामः यत् चम्पूकाव्यस्य एका बॄहद्परम्परा अस्ति। तथा प्रकाशिताप्रकाशितानाम् चम्पूकाव्यानां संख्या पञ्चाशताधिकद्विशताधिकाप्यस्ति। केषाञ्चित् ग्रन्थानां नामानि तथा तेषां कवीनां नामानि च---
चम्पूग्रन्थाः कवयः

१. यशस्तिलकचम्पूकाव्यं १. सोमदेवसूरिः

२. नलचम्पूकाव्यं २. त्रिविक्रमभट्टः
३. मदालसाचम्पूकाव्यं ३. त्रिविक्रमभट्टः
४. जीवन्धरचम्पूकाव्यं ४. हरिश्चन्द्रः
५. यशस्तिलकचम्पूकाव्यं ५. सोमदेवसूरिः
६.रामायणचम्पूकाव्यं ६, भोजराजः
७. भागवतचम्पूकाव्यं ७. अभिनवकालिदासः
८. उदयसुन्दरीकथा ८. सोड्ढल
९. भारतचम्पूकाव्यम् ९. अनन्तभट्टः
१०. भागवतचम्पूकाव्यं १०.अनन्तभट्टः
११. वरदाम्बिकाचम्पूकाव्यं ११. रानी तिरुमलाम्बा
१२. भरतेश्वराभ्युदयचम्पूकाव्यं १२. आशाधरसूरिः
१३. पुरुदेवचम्पूकाव्यं १३. अर्हदासः
१४. अमोघराघवचम्पूकाव्यं १४. दिवाकरः
१५. यतिराजविजयचम्पूकाव्यं १५.अहोबलसूरिः
१६. विरुपाक्ष-वसन्तोत्सवचम्पूकाव्यं १६. अहोबलसूरिः
१७. रुक्मिणीपरिणयचम्पूकाव्यं १७. अमलाचार्यः
१८. वेदान्ताचार्य-विजयचम्पूकाव्यं १८. कविः तार्किकसिंहः
१९. आनन्दवॄन्दावनचम्पूकाव्यं १९. कविः कर्णपूरः
२०. आचार्य-दिग्विजयचम्पूकाव्यं २०. बल्लीसहायः
२१. काकुत्स्थ- ।ग

विजय-चम्पूकाव्यं २१. बल्लीसहायः
२२. भागवतचम्पूकाव्यं २२. चिदम्बरः
२३. पंचकल्याणचम्पूकाव्यं २३. चिदम्बरः
२४. पारिजातहरणचम्पूकाव्यं २४. शेषकॄष्णः
२५. नॄसिंह-चम्पूकाव्यं २५. दैवज्ञसूर्यः
२६. मन्दारमरन्दचम्पूकाव्यं २६. कॄष्णकविः
२७. विद्वन्मोद-तरंगिणीचम्पूकाव्यं २७. चिरंजीवभट्टाचार्य-शतावधानः
२८. माधवचम्पूकाव्यं २८. चिरंजीवभट्टाचार्य-शतावधानः
२९. वीरभद्रचम्पूकाव्यं २९. पद्मनाभमिश्रः
३०. स्वाहा-सुधाकरचम्पूकाव्यं ३०. कविःनारायणभट्टः
३१. मत्स्यावतार-प्रबन्धचम्पूकाव्यं ३१. कविःनारायणभट्टः
३२. पांचाली-स्वयंवरचम्पूकाव्यं ३२. कविःनारायणभट्टः
३३. नॄगमोक्षचम्पूकाव्यं ३३. कविःनारायणभट्टः
३४. राजसूय-प्रबन्धचम्पूकाव्यं ३४. कविःनारायणभट्टः
३५. आनन्दकन्दचम्पूकाव्यं ३५. मित्रमिश्रः
३६. नीलकण्ठ-विजय-चम्पूकाव्यं ३६. नीलकण्ठदीक्षितः
३७. द्रौपदी-परिणय-चम्पूकाव्यं ३७. चक्रकविः
३८. विश्वगुणादर्शचम्पूकाव्यं ३८. वेंकटाध्वरी
३९. वरदाभ्युदय-चम्पूकाव्यं ३९. वेंकटाध्वरी
४०. उत्तरचम्पूकाव्यं ४०. वेंकटाध्वरी
४१. श्रीनिवास-चम्पूकाव्यं ४१. वेंकटाध्वरी
४२. भारतचम्पूकाव्यं ४२. राजचूड़ामणिदीक्षितः
४३. प्रह्लादचम्पूकाव्यं ४३. केशवभट्टः
४४. वेंकटेश-चम्पूकाव्यं ४४. धर्मराजः
४५. धर्मविजय-चम्पूकाव्यं ४५. नल्ला-दीक्षितः
४६. शंकरचेतोविलास-चम्पूकाव्यं ४६. कविः शंकरः
४७. गंगावतरणचम्पूकाव्यं ४७. कविः शंकरः
४८. रामचन्द्रचम्पूकाव्यं ४८. विश्वनाथसिंहः
४९. चित्रचम्पूकाव्यं ४९. बाणेश्वरविद्यालंकारभट्टाचार्य़ः
५०. आनन्दचम्पूकाव्यं ५०. श्रीनिवासः
५१. सुदर्शन-चम्पूकाव्यं ५१. कॄष्णानन्दकवीन्द्रः
५२. सिन्दे-विजय- विलास-चम्पूकाव्यं ५२. सदाशिवशास्त्रीमुसलगांवकरः




सन्दर्भ-सूची
१. संस्कृत साहित्य का आलोचनात्मक इतिहास--डा० कपिलदेव द्वि्वेदी
२. संस्कृत साहित्य का समीक्षात्मक इतिहास--वाचस्पति गैरोला
३. संस्कृत साहित्य का इतिहास--बलदेव उपाध्याय